वांछित मन्त्र चुनें

सा ते॑ जी॒वातु॑रु॒त तस्य॑ विद्धि॒ मा स्मै॑ता॒दृगप॑ गूहः सम॒र्ये । आ॒विः स्व॑: कृणु॒ते गूह॑ते बु॒सं स पा॒दुर॑स्य नि॒र्णिजो॒ न मु॑च्यते ॥

अंग्रेज़ी लिप्यंतरण

sā te jīvātur uta tasya viddhi mā smaitādṛg apa gūhaḥ samarye | āviḥ svaḥ kṛṇute gūhate busaṁ sa pādur asya nirṇijo na mucyate ||

पद पाठ

सा । ते॒ । जी॒वातुः॑ । उ॒त । तस्य॑ । वि॒द्धि॒ । मा । स्म॒ । ए॒ता॒दृक् । अप॑ । गू॒हः॒ । स॒म॒र्ये । आ॒विः । स्व१॒॑रिति॑ स्वः॑ । कृ॒णु॒ते । गूह॑ते । बु॒सम् । सः । पा॒दुः । अ॒स्य॒ । निः॒ऽनिजः॑ । न । मु॒च्य॒ते॒ ॥ १०.२७.२४

ऋग्वेद » मण्डल:10» सूक्त:27» मन्त्र:24 | अष्टक:7» अध्याय:7» वर्ग:19» मन्त्र:4 | मण्डल:10» अनुवाक:2» मन्त्र:24


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ते) हे प्राणधारी मनुष्य ! तेरे (सा जीवातुः) वह पूर्वोक्त देवतात्रयी-सूर्य, वायु, मेघरूप जीवन धारण करानेवाली है (उत) अपितु (तस्य विद्धि) जिस परमात्मा की ऐसी वह शक्ति है, उसको तू जान (समर्ये) स्वजीवनसङ्ग्राम में या स्वजीवन-संघर्षमार्ग में (मा स्म) न कभी (एतादृक्-अप गूह) ऐसे ही मत गँवा (स्वः-आविः-कृणुते) वह परमात्मा तेरे लिये जीवनसुख को प्रकाशित करता है (बुसं गूहते) आकाशीय जल को मेघरूप में बनाता है (अस्य निर्णिजः) इस शोधक-पवित्र परमात्मा का (पादुः-न मुच्यते) व्यवहार क्षीण नहीं होता है ॥२४॥
भावार्थभाषाः - सूर्य, वायु और मेघ प्राणधारी को जीवन देनेवाले हैं। जिस परमात्मा ने ये रचे हैं, उसे जानना चाहिये। जीवनयात्रा या जीवनसंग्राम में उसे भूलना न चाहिये, वह जीवन के सुख को प्रकाशित करता है। उसका पालन आदि व्यवहार क्षीण नहीं होता है ॥२४॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ते) हे प्राणधारिन् मनुष्य ! तव (सा जीवातुः) सा पूर्वोक्ता देवतात्रयी सूर्यवायुपर्जन्यरूपा जीवनधारिका शक्तिरस्ति (उत) अपि (तस्य विद्धि) यस्य परमात्मनः सा शक्तिस्तं परमात्मानं त्वं जानीहि (समर्ये) स्वजीवनसङ्गते स्वजीवन-संघर्षमार्गे वा (मा स्म) न कदापि (एतादृक्-अप गूहः) एतादृशीमपवारय दूरं कुरु (स्वः आविः कृणुते) स परमात्मा तवार्थं स्वः-जीवनसुखं प्रकाशीकरोति (बुसं गूहते) आकाशीयमुदकं गूढं मेघरूपं करोति “बुसमुदकनाम” [निघ० १।१२] (अस्य निर्णिजः) अस्य शोधयितुः परमात्मनः (पादुः न मुच्यते) व्यवहारो न हीयते ॥२४॥